धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव: मामका: पाण्डवाश्चैव किमकुर्वत संजय: ||१||
द्रष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा
आचार्यमुपसंगम्य राजा वचनंब्रवीत ||२||
पश्यैतां पाण्डु पुत्राणामाचर्य महतीं चमूम्
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ||३||
अत्र शूरा महेष्वासा भीमार्जुन समा यूधि
युयुधानो विराटश्च द्रुपदश्च महारथ ||४||
ध्रुष्टकेतुश्चकितान: काशिराजश्च वीर्यवान्
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव ||५||
युधामन्युश्च विक्रान्त उत्तमौजश्च वीर्यवान्
सौभद्रौ द्रौपदेयाश्च सर्व एव महारथः ||६||
अस्माकं तु विशिष्टो ये तान्निबोध द्विजोत्तम
नायका मम सैन्यस्य संज्ञार्थं ब्रवीमि ते ||७||
भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जय
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ||८||
अन्ये च बहव: शूरा मदर्थे त्यक्तजीविता:
नानाशस्त्रप्रहरणा: सर्वे युद्धेविशारदा: ||९||
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्
पर्याप्तं त्विदमेतेषां बलं भीमाष्भिरक्षितम् ||१०||
अयनेषु च सर्वेषु यथाभागमवस्थिता:
भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि ||११||
तस्य संजनयन् हर्ष कुरुवृध्ह: पितामह:
सिहनादं विनद्यौच्चै: शङ्खदधमो प्रतापवान् ||१२||
तत: शङ्खश्च भेर्यश्च पणवानकगोमुखा:
सहसैवाभ्यहन्यन्त स शब्दोस्तुमुलोभवत् ||१३||
तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्तिथौ
माधव: पाण्डवश्चैव दिव्यौ शन्खौ प्रदध्मतु ||१४||
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय:
पौन्दम् दध्मौ महाशङ्खं भीमकर्मा वृकोदर ||१५||
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर:
नकुल: सहदेवश्च सुघोषमणिपुश्पकौ ||१६||
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ||२१ ||
योत्स्यमानानवेक्षेऽहं य एतेत्र समागता:
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव: ||२३||
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ||२४||
भीष्मद्रोणप्रमुखत: सर्वेषां च महीक्षितां |
उवाच पार्थ पश्यैतान्समवेतान्कुरुनिति ||२५||
तत्रापश्यत्स्थितान् पार्थ: पितृनथमहान् |
आचार्या न् मातुलान् भ्रातृ पुत्रान्पौत्रान् सखीं तथा || २६||
श्वसुरान् सुहृदश्चैव सेनयोरुभयोरापि
तान्समीक्ष्य स कौन्तेय: सर्वान् बन्धुनवस्थितान् ||२७||
कृपया परयाविष्टो विषीदन्निदमब्रवीत्
सीदन्ति मम गात्राणि मुखं च परिशुष्यति |
वेपथुश्च शरीरे मे रोम हर्षश्च जायते ||२९||
गाण्डीवं स्त्रं सते हस्तात्त्वक्चैव परिदह्यते
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मन: ||३०||
निमित्तानि च पश्यामि विपरीतानि केशव
न च श्रेयोऽनुपष्यामि हत्वा स्वजनमाहवे ||३१||
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च
किं नो राज्येन गोविन्द कि भोगैर्जीवितेन वा ||३२||
येषामर्थे काङ्क्क्षितं नो राज्यं भोगा: सुखानि च |
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ||३३||
आचार्या: पितर: पुत्रास्तथैव च पितामहा:
मातुला श्वसुरा: पौत्रा: श्याला: संबन्धिनस्तथा ||३४||
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन
अपि त्रैलोक्यराज्यस्य हेतो: किं नु महीकृते || ३५|
निहत्य धार्तराष्ट्रान्न: का प्रीति: स्याज्जनार्दन
पापमेवाश्रयेदस्मान्हत्वैतानाततायिन: ||३६||
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्
स्वजनं हि कथं हत्वा सुखिन: स्यां माधव ||३७||
यद्यप्येते न पश्यन्ति लोभोपहतचेतस: |
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ||३८||
कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम्
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||३९||
कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना:
धर्मे नष्टे कुलं कुत्सनमधर्मोऽभिभवत्युत ||४०||
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रिय:
स्त्रीषु दुष्टाषु वार्ष्णेय जायते वर्णसङ्कर || ४१ ||
सङ्करो नरकायैव कुलघ्नानां कुलस्य च
पतन्ति पितरो ह्रोषां लुप्तपिण्डोदकक्रिया: ||४२||
दोषैरेतै: कुलघ्नानां वर्णसङ्करकारकै: |
उत्साद्यन्ते जातिधर्मा: कुलधर्माश्च शाश्वता: ||४३||
उत्सन्न्कुल धर्माणां मनुष्याणां जनार्दन |
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ||४४||
अहो दत महत्पापं कर्तुं व्यवसिता वयम् |
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यता: ||४५||
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणय: |
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ||४६||
विसृज्य सशरं चापं शोकसंविग्नमानस: ||
काश्यश्च परमेष्वास: शिखण्डी च महारथ:
धृष्टद्युम्नो विराटश्च सात्यकिश्च्पराजित: ||१७||
द्रुपदो द्रौपदेयाश्च सर्वश: पृथिवीपते
सौभद्रश्च महाबाहु: शङ्खान्दध्मु: पृथक् पृथक् ||१८||
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्
नभ श्च पृथिवीं चैव तुमुलौ व्यनुनादयन् ||१९||
अथ व्यवस्थितान्द्रष्टा धार्त राष्ट्रान् कपिध्वज:
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डव: ||२० ||
हृषिकेशं तदा वाक्यमिदमाह महीपते
अर्जुन उवाच
याव देतन्निरीक्षेऽहं योद्धुकामानवस्थितन्
कैर्मया सह योद्धुव्यम्स्मिन् रणसमुद्यमे ||२२||
योत्स्यमानानवेक्षेऽहं य एतेत्र समागता:
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव: ||२३||
संजय उवाच
एवमुक्तो हृषीकेशो गुडाकेशेन भारत सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ||२४||
भीष्मद्रोणप्रमुखत: सर्वेषां च महीक्षितां |
उवाच पार्थ पश्यैतान्समवेतान्कुरुनिति ||२५||
तत्रापश्यत्स्थितान् पार्थ: पितृनथमहान् |
आचार्या न् मातुलान् भ्रातृ पुत्रान्पौत्रान् सखीं तथा || २६||
श्वसुरान् सुहृदश्चैव सेनयोरुभयोरापि
तान्समीक्ष्य स कौन्तेय: सर्वान् बन्धुनवस्थितान् ||२७||
कृपया परयाविष्टो विषीदन्निदमब्रवीत्
अर्जुन उवाच
द्रष्टेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ||२८|| सीदन्ति मम गात्राणि मुखं च परिशुष्यति |
वेपथुश्च शरीरे मे रोम हर्षश्च जायते ||२९||
गाण्डीवं स्त्रं सते हस्तात्त्वक्चैव परिदह्यते
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मन: ||३०||
निमित्तानि च पश्यामि विपरीतानि केशव
न च श्रेयोऽनुपष्यामि हत्वा स्वजनमाहवे ||३१||
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च
किं नो राज्येन गोविन्द कि भोगैर्जीवितेन वा ||३२||
येषामर्थे काङ्क्क्षितं नो राज्यं भोगा: सुखानि च |
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ||३३||
आचार्या: पितर: पुत्रास्तथैव च पितामहा:
मातुला श्वसुरा: पौत्रा: श्याला: संबन्धिनस्तथा ||३४||
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन
अपि त्रैलोक्यराज्यस्य हेतो: किं नु महीकृते || ३५|
निहत्य धार्तराष्ट्रान्न: का प्रीति: स्याज्जनार्दन
पापमेवाश्रयेदस्मान्हत्वैतानाततायिन: ||३६||
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्
स्वजनं हि कथं हत्वा सुखिन: स्यां माधव ||३७||
यद्यप्येते न पश्यन्ति लोभोपहतचेतस: |
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ||३८||
कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम्
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||३९||
कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना:
धर्मे नष्टे कुलं कुत्सनमधर्मोऽभिभवत्युत ||४०||
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रिय:
स्त्रीषु दुष्टाषु वार्ष्णेय जायते वर्णसङ्कर || ४१ ||
सङ्करो नरकायैव कुलघ्नानां कुलस्य च
पतन्ति पितरो ह्रोषां लुप्तपिण्डोदकक्रिया: ||४२||
दोषैरेतै: कुलघ्नानां वर्णसङ्करकारकै: |
उत्साद्यन्ते जातिधर्मा: कुलधर्माश्च शाश्वता: ||४३||
उत्सन्न्कुल धर्माणां मनुष्याणां जनार्दन |
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ||४४||
अहो दत महत्पापं कर्तुं व्यवसिता वयम् |
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यता: ||४५||
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणय: |
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ||४६||
संजय उवाच
एवमुक्त्वार्जुन: सङ्ख्ये रथोपस्थ उपाविशत् |विसृज्य सशरं चापं शोकसंविग्नमानस: ||
|| ॐ तत्सदिति श्रीमद भगवदगीतासुपनित्सू ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुन संवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्याय: संपूर्ण ||
No comments:
Post a Comment